बहूनां तु प्रधानानां नाम यत्राभिकीर्त्यते।
अभिप्रेतार्थसिद्धयर्थं सा सिद्धिरिति कीर्तिता॥ ३४४॥
यथा रत्नावल्यां चतुर्थेऽङ्के, राजा—
क्वासौ जलं हुतवहः + + किं न्विदमिन्द्रजालम्॥ ३४५॥
सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम्॥ ३४६॥