आश्वसिहि प्रोषितपतिके! न भवन्ति नवप्रावृडभ्राणि॥)
न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः।
तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विजृम्भते॥ ४११॥
अनौपम्या यथा—(काव्याद. २.२६६)
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम्॥ ४१२॥
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम्।
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम्॥ ४१३॥