भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1511 to 1520 of 1676 verses
अर्थप्रकरणापेक्षो यो वा शब्दान्तरैस्सह।

प्रयुक्तो गमयत्यर्थं स गौण इति गीयते॥ ४०८॥

एतदप्ययुक्तं— 'यस्य हि शब्दस्य यद्रूपं कस्यचिदर्थस्य निमित्तं सोपपदस्यापि तत्तदेव। न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम्। उपपदं तु विद्यमानमपि द्योतकतवेनापेक्ष्यते। यथैव चक्षुषः प्रकाशानुग्रहापेक्षित्वे रूपमर्थो, यथा वा मुक्तसंशयस्य मुख्यस्य वर्णक्रममात्राऽग्रहणसंस्कारस्मृतिसम्बन्धानुभवाद्यपेक्षित्वं तथात्रोपपदमपि नैव विना सामर्थ्येनापेक्षितुं शक्यते। अपेक्ष्यमाणमपि द्योतकत्वेनेति— कर्तव्यतास्थानीयत्वान्न मुख्यतां विहन्ति। तेन विनाप्युपपदेन स तस्यार्थो भवत्येव, कथंचित्तु नाभिव्यज्यते, तद्यथा गवादिशब्दानां पृथिव्यादिः।

एवं तर्हि नित्यं माणवकाग्‍निशब्दसमुदायादस्यार्थस्य प्रतीतेः अश्वकर्णादिवत् समुदायवाच्यत्वे सत्यग्न्यादेरवयवस्य तत्र गौणत्वमिति।

तदपि नास्ति। अन्वयव्यतिरेकाभ्यामर्थभेदप्रतीतेस्तत्र समुदायप्रतीतिर्भवति। यत्रावयवार्थौ तिरोधाय त्यक्तभेदः समुदायार्थ (भेद) एव प्रतीयते, गमयते त्वत्राग्‍निशब्दस्य पैङ्गल्यं, माणवकशब्दस्य तु पिण्डस्वरूपं विविक्तं वाच्यम्। अतः प्रात्यात्मिकयोरुभावपि वाच्यत्वान्मुख्याविति।

तत्रैतत्स्यात् अनुगतस्वार्थपदद्वयगम्यत्वान्नीलोत्पलवत् वाक्यार्थोऽयम्। अतश्च तस्यावयवापेक्षया गौणत्वमिति।

तदपि न। न ह्यत्राग्‍निपदार्थेग्‍नित्वमस्ति; न चानन्वितपदार्थो वाक्यार्थः सम्भवति।

अस्ति तर्हि स्वरूप एव शब्दो नित्यं वर्तते; स एवास्यान्तरङ्गोऽव्यभिचारी शब्दान्तरैश्च असाधारणोऽर्थः। तत्र चानुपदेशा प्रवृत्तिः सर्वेषाम्। स्वरूपं तु शब्दानामर्थेष्वध्यारोप्यते। यो गोशब्दः सोऽयं पिण्डः। तद्यथा— यो वृद्धिशब्दः स आदैच् इति। तत्र स्वरूपेष्वेव श्रुतयो नित्यावरुद्धाः। अर्थस्वरूपयोस्तु रूपविपर्यासमात्रे सकलकोकव्यवहारः क्रियते। नियतस्वरूपं श्रूयते; द्वितीयस्थानापन्नविपर्यासं हि स्वरूपं गौणव्यपदेशे निमित्तत्वं प्रतिपद्यते। तदाह—

तत्र स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते।

अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता॥ ४०९॥

Showing 1511 to 1520 of 1676 verses