भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1491 to 1500 of 1676 verses
न चान्यत् सामान्यं शक्यते कल्पयितुम्, जात्यन्तरेऽपि क्‍वचित् कासांचित्सम्भवात्। न चानभिहितं गोत्वं गुणक्रियाणां व्यवच्छेदकं भवति, अप्रतीतेः। अभिहितं चेत् तत्प्रत्ययादेवाशेषगुणक्रियावगमादभिधानशक्‍तयनवसर इति। (तन्त्रवा.)

अन्ये तु शक्तिप्रमाणादिभिर्न्यूनं गौणम्, अतिशयवन्तं सम्पूर्णं मुख्यमित्याचक्षतें न्यूना हि देवदत्ते शक्तिः सम्पूर्णा सिंहे, अल्पं प्रमाणं कूपे महत् समुद्र इति। (वाप. २.२५३)

तत्रापरे ब्रुवते (तवा.)—शब्दाभिधेयतया न्यूनमधिकं वा विज्ञायते, न तु शक्तिप्रमाणाद्युपचयापचयेन। यो हि शब्दो येनार्थेनावबद्धोऽर्थान्तरं नीयते तदुपचितमप्यर्थरूपं तच्छब्दं प्रति न्यूनमेव। तथा हि—'कूपः समुद्रः पाटलीपुत्रः स्वर्ग' इत्यादौ अल्पप्रमाणशक्त्यादावपि स्वार्थे कूपादिशब्दानां मुख्यत्वमेव। अतः 'स्वार्थे प्रवर्तमानो मुख्योऽर्थान्तरे तु गौण' इति न्याय्यम्।

तत्र जातिः गवादिशब्दानां प्रवृत्तिनिमित्तं, जातौ हि स्वार्थे प्राप्‍तस्वरूपाण्य— भिधांनानि तत्सहचरितांस्तद्वारेणैव धर्मान् संस्पृशन्ति। तत्र रूढसम्बन्धस्य प्रसिद्धसाहचर्यस्य क्रियागुणादेर्धर्मान्तरस्य दर्शनादतज्जातीयेषु जातिशब्दः प्रयुज्यमानो गौण इत्युच्यते। डित्थाडिष्वप्यनाश्रिताकृतिषु क्रियागुणनिमित्तायां शब्दप्रवृत्तावर्थान्तर— समुद्भवाद् गवादिवदेव गौणमुख्यत्वे।

अत्राहुः—अजहत्स्वार्थाः सर्वा वृत्तयः पूर्वशक्‍त्यनुसारसम्भवे शक्‍त्यन्तरकल्पने प्रमाणाभावात्; सम्भविष्यति चात्र गोत्वावगतव्यक्‍त्युपस्थापितजाड्याद्यनेक— धर्मप्रत्ययाद् बाहीके प्रत्यय इति पूर्वैव शक्तिर्निमित्तम्। अतो न संशयहेतुत्वेन व्यवहारोच्छेदकारणं प्रसिद्धहानाप्रसिद्धकल्पनमाश्रयणीयम्।

अपि च यथा गौर्बाहीक इति कृतप्रत्ययलोपो गोशब्दो बाहीकार्थान्तरे प्रवर्तमानो गौण इत्युच्यते, तथा गर्गस्यापत्यानि बहूनि गर्गाः, विदा इति प्रत्ययलोपात् प्रकृतिशब्दाः प्रत्ययार्थे वर्तमाना अर्थान्तरवचनत्वाद् गौणा भवेयुः (वाप. २.२२१) तस्मादेक एव शब्दोऽनेकमर्थं यौगपद्येन पर्यायेण वाभिधत्ते, न तु स्वार्थमुत्सृज्यार्थान्तरे प्रवर्तते। प्रसिद्ध्यप्रसिद्धिभ्यां च तस्य मुख्यगौणव्यपदेशो जायते (वाप. २.२६३)। तत्र यौगपद्येऽपि यदा प्रसिद्धेनार्थेनावच्छिद्यते शब्दस्तदा मुख्यव्यपदेशं लभते। अप्रसिद्धेन त्वर्थेन प्राप्‍तावच्छेदस्य गौणव्यपदेशो भवति। पर्यायेणापि यस्मिन् वाक्ये प्रसिद्धार्थः शब्दस्तस्त्र मुख्यः अन्यत्र तु गौणः। तदाह—

विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव।

मन्यते स गवादिस्तु गौण इत्युच्यते क्‍वचित्॥ ४०५॥ (वाप. २.२७४)

तस्माल्लब्ध्वा भवतु सोऽयमिति वा संबन्धः क्रियताम्। सर्वथा यत्रार्थान्तरवाची शब्दः कुतश्चिन्निमित्तात् परित्यज्यैव स्वार्थमर्थान्तरे वर्तते, 'यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठते।' (वाप. २.२५१) इति प्रसिद्धिः, तस्य तथाभूतोऽर्थो गौण इति व्यपदिश्‍यते। यत्र तु लोकेऽर्थान्तरत्वेन प्रसिद्धिस्तत्र मुख्यत्वमेव। यथैव रूपादेव केचित् पदार्थाः केषुचित् कर्मसु योग्यत्वेनाश्रितशक्तयः साधनत्वेन प्रसिद्धसम्बन्धाः, ते च दर्शनमात्रादेव विशिष्टविषयास्तत्रतत्राव्यभिचारेण प्रतीयन्ते। तद्यथा— सीरासिमुसलादयः कृषिवधावहननादिषु प्रयोगैकदेशरूपत्वमिव प्रतिपन्ना गृह्यन्ते (वाप. २.२७५)।

न चैषां कर्मान्तरेषु शक्तयो न प्रभवन्ति। प्रसिद्धा तु रूपपरिकल्पितमेषां नियतक्रियाविषयसाधनत्वं व्यवस्थितं लोके। तेषु कर्मान्तरेषूपादीयमानाः साधयन्तोऽपि तदर्थं न तदङ्गत्वेन व्यपदेशं लभन्ते। तथैवैते गवादयः शब्दाः प्रत्यायकत्वस्य विच्छेदाभावाद् रूपपरिग्रहेण प्रत्यायनशक्तिमात्रपरिग्रहेण च केषुचिदर्थेषु लोके प्रसिद्धसम्बन्धाः श्रुतिमात्रादेव तद्‌विषयत्वेनावतिष्ठन्ते। प्रत्यायनशक्तिमात्रं तूपादायान्यत्र प्रयुज्यमानाः प्रत्याययन्तोऽपि तानर्थान् तत्संबन्धित्वेन लोकव्यवस्थाप्रसिद्धिं न लभन्ते।

Showing 1491 to 1500 of 1676 verses