भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1501 to 1510 of 1676 verses
तस्माच्छुतिमात्रेण शब्दानां येष्वर्थेषु तादर्थ्यमवसीयते तमेषां प्रसिद्धं मुख्यमर्थमाचक्षते (वाप. २.२७८)। यत्र तु श्रुतिमात्रविषयं कृतं यत्‍नमभिक्रम्य निमित्तान्तरतः प्रतीतिः तमप्रसिद्धं गौणमित्याहुः (वाप. २.२६६)। अत्राप्युच्यते— 'प्रसिद्धिर्नाम प्रज्ञानं, न च प्रज्ञाने कश्चिद् विशेषोऽस्ति। तदुक्तम्—

प्रसिद्धिरिति विज्ञानं न चास्योनातिरिक्तता।

तस्मान्न तत्कृतः शक्यो विशेषो वक्‍तुमञ्जसा॥ ४०६॥ (तवा. ३.२.१)

अपि च पुरारात्प्रभृतीनामाख्यातसरूपाणां च प्रसिद्धार्थाभिधायिनां गौणुमख्यप्रविभागः प्रसज्येत यथा— 'पुरा विद्योतते, नडेन स्म पुरा ब्राह्मणा अधीयते (काशिका३.२.११८) आराद्दवीयो अपसेध शत्रून् (मैसं. ३.१६३), आराच्छत्रुमप वाधस्व दूरं (ऋवे.१०.४२.७), वायुर्वायुरश्वोऽश्वस्तेन तेनेति (मभा.दी. १६०)।

किं च गवादिशब्दानामपि वागादिष्वप्रसिद्धर्गौणताप्रसङ्गः। तस्माच्छ्रोत्रगत— प्रसिद्धेर्मूलं तद्वक्तृगतं बह्वल्पप्रयोगित्वं मुख्यगौणप्रविभागाय प्रकल्पते। यस्य बहुशः प्रयोगः स मुख्यः, अल्पशस्तु प्रयुज्यमानो गौण इति।

तदपि न सम्यक्। अल्पशोऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेद्, अतः सोऽपि शब्दात् प्रतीयत इति मुख्य एव। अत्रापि च गवादीनां वागादिषु गौणताप्रसङ्गो वक्तव्यः। न च बह्वल्पप्रयोगिता मुख्यगौणत्वे हेतुः। तथा हि—

मण्डकैर्बुहुशस्तृप्‍तिः कदाचित्‌खण्डमोदकैः।

न तस्य मण्डका मुख्या गौणा वा खण्डमोदकाः॥ ४०७॥

(तवा.३.२.१)

एवं तर्हि केवलादेव शब्दाद् योऽर्थः प्रतीयते स मुख्यो, यस्तु सोपपदात् स गौणः (शाभा. ३.२.१) न हि यथा केवलादग्‍निशब्दाद् ज्वलनप्रत्ययो भवत्येवं माणवकप्रत्ययः, पदान्तराधीनत्वात्। यत्रापि पदान्तरं न श्रूयते तत्राप्यर्थप्रकरणापेक्षं तदेव व्याप्रियते (तवा.)। तदुक्तम्—(वाप. २.२६४)

Showing 1501 to 1510 of 1676 verses