तस्माच्छुतिमात्रेण शब्दानां येष्वर्थेषु तादर्थ्यमवसीयते तमेषां प्रसिद्धं मुख्यमर्थमाचक्षते (वाप. २.२७८)। यत्र तु श्रुतिमात्रविषयं कृतं यत्नमभिक्रम्य निमित्तान्तरतः प्रतीतिः तमप्रसिद्धं गौणमित्याहुः (वाप. २.२६६)। अत्राप्युच्यते— 'प्रसिद्धिर्नाम प्रज्ञानं, न च प्रज्ञाने कश्चिद् विशेषोऽस्ति। तदुक्तम्—
प्रसिद्धिरिति विज्ञानं न चास्योनातिरिक्तता।
तस्मान्न तत्कृतः शक्यो विशेषो वक्तुमञ्जसा॥ ४०६॥ (तवा. ३.२.१)
अपि च पुरारात्प्रभृतीनामाख्यातसरूपाणां च प्रसिद्धार्थाभिधायिनां गौणुमख्यप्रविभागः प्रसज्येत यथा— 'पुरा विद्योतते, नडेन स्म पुरा ब्राह्मणा अधीयते (काशिका३.२.११८) आराद्दवीयो अपसेध शत्रून् (मैसं. ३.१६३), आराच्छत्रुमप वाधस्व दूरं (ऋवे.१०.४२.७), वायुर्वायुरश्वोऽश्वस्तेन तेनेति (मभा.दी. १६०)।
किं च गवादिशब्दानामपि वागादिष्वप्रसिद्धर्गौणताप्रसङ्गः। तस्माच्छ्रोत्रगत— प्रसिद्धेर्मूलं तद्वक्तृगतं बह्वल्पप्रयोगित्वं मुख्यगौणप्रविभागाय प्रकल्पते। यस्य बहुशः प्रयोगः स मुख्यः, अल्पशस्तु प्रयुज्यमानो गौण इति।
तदपि न सम्यक्। अल्पशोऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेद्, अतः सोऽपि शब्दात् प्रतीयत इति मुख्य एव। अत्रापि च गवादीनां वागादिषु गौणताप्रसङ्गो वक्तव्यः। न च बह्वल्पप्रयोगिता मुख्यगौणत्वे हेतुः। तथा हि—
मण्डकैर्बुहुशस्तृप्तिः कदाचित्खण्डमोदकैः।
न तस्य मण्डका मुख्या गौणा वा खण्डमोदकाः॥ ४०७॥
एवं तर्हि केवलादेव शब्दाद् योऽर्थः प्रतीयते स मुख्यो, यस्तु सोपपदात् स गौणः (शाभा. ३.२.१) न हि यथा केवलादग्निशब्दाद् ज्वलनप्रत्ययो भवत्येवं माणवकप्रत्ययः, पदान्तराधीनत्वात्। यत्रापि पदान्तरं न श्रूयते तत्राप्यर्थप्रकरणापेक्षं तदेव व्याप्रियते (तवा.)। तदुक्तम्—(वाप. २.२६४)