भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1521 to 1530 of 1676 verses
(वाप. २.२५६)

रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।

स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्‍गतिः॥

(प्र.वा.प्रत्य. ३७)

अत्रापि पञ्चालस्यापत्यानि पञ्चालाः, तेषां निवासो जनपदः पञ्चालाः, पाणिनिना प्रोक्तो ग्रन्थः पाणिनीयः, तमधीते वेत्ति वा पाणिनीयः शिष्य इत्यादिषु शब्दस्वरूपस्य द्वितीयस्थानापन्नविपर्यासत्वाद् गौणत्वं प्राप्‍नोति। एवं तर्ह्यर्थभेदान्नामाख्यातशब्दानामिव श्रुतिरूपसादृश्येऽपि गवादिशब्दानां भेद एव नित्यो मुख्यः परमर्थेन विज्ञायते, दुर्ज्ञानत्वाच्च भेदस्य स्वरूपाश्रयेणैकत्वेन। प्रकृतिशब्दानां प्रत्ययार्थेषु लुबादिव्यवहारमात्रं शास्त्रेण क्रियते, गौरिव गौर्बाहीकः, चञ्चेव चञ्चा देवदत्तः। तत्र यथास्वमप्यर्थाभिधाने शास्त्रप्रवृत्त्यपेक्षया मुख्यगौणविभागः; स्वतोऽर्थे प्रवर्तमानो मुख्यः, शास्त्रेण तु नियुक्तो गौण इति।

ननु च शुक्लादिशब्दानां मतुब्लोपात् तद्वति द्रव्ये वर्तमानानां गौणताप्रसङ्गः। यतो न निमित्तवत्सु अर्थेषु निमित्तं स्वरूपप्रत्ययनिमित्तत्वं, निमित्तानि प्रतिपाद्यमानानि प्रतिलब्धरूपसम्प्रहाणीव (ण्येव?) गौणमुख्यव्यवहारमवतरन्ति। तेषां हि सत्यप्यात्मान्तरानात्मत्वे तदात्माश्रय एव व्यवहारः प्रसिद्धो लोको। एवमपि गर्गा बिदाः पञ्चाला इति प्रकृतिशब्दानां प्रत्ययार्थे शास्त्रद्वारेण प्रवृत्तेर्गौणताप्रसङ्गः। तस्मान्न कथंचिद्गौणमुख्यप्रविभागः प्रकल्पत इति।

अत्रोच्यते— 'यः साक्षादेव शब्दात् प्रतीयते सोऽर्थो मुखमिव भवतीति मुख्य इत्युच्यते। तथा हि— 'शाखादिभ्यो य' (५.३.१०३) इत्येवमिवार्थे मुख्य इत्ययं शब्दप्रयोगो भवति। यस्तु खलु प्रतीतार्थावलम्बिगुणसम्बन्धव्यवधानेन गम्यते स गुणेभ्य आगत इति गौणो भवति। (शाभा. ३.२.१)

ननु च यद्गिरिशिखरमारुह्य प्रेक्षते तदपि प्रत्यक्षमेवेति न्यायाद् गुणव्य— वधानेनापि शब्दतः प्रतीयमानोऽर्थो मुख्य एवेति युज्यते। न हि सामग्रीव्यवधानं कारकाणां कारकत्वं विहन्ति; अश्वेनापि ग्रामं गच्छन् गन्तैव भवति। नैवम्; अस्त्यत्रापरोऽपि विशेषः। अनादृत्यैव माणवकप्रत्ययं ज्वलनमग्‍निशब्दात्प्रतियन्तो दृश्यन्ते। न त्वनादृत्य ज्वलनप्रत्ययं माणवकं प्रतियन्ति। कुतः पुनरेतत्? यो यो ऽग्‍निसदृशो विवक्ष्यते, तत्र तत्राग्‍निशब्दो निपतति, विगतसादृश्याच्च अपयन्नुपलक्ष्यते, अतोऽग्‍निसादृश्यमस्य प्रवृत्तौ निमित्तम्। न च ज्वलने अप्रतीते तत्सादृश्यं प्रतीयते। तस्माज्ज्वलने अग्‍निशब्दो मुख्यो माणवके तु गौण इति। तदाहुः—

प्राक्प्रतीतस्य मुख्यत्वं मुखवत्प्रथमोद्गतेः।

पश्चाद्गम्यस्य गौणत्वं गुणागमनहेतुकम्॥ ४११॥

Showing 1521 to 1530 of 1676 verses