अस्तोतव्यस्याभिनन्दनमप्रस्तुतप्रशंसा। यथा—
कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन।
धनिषु न दैन्यं विदधति ते किल पशवो, वयं सुधियः॥ ४१४॥
पङ्गो! वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां
धन्योऽन्ध! त्वं धनमदवतां नेक्षसे यो मुखानि।
श्लाघ्यो मूक! त्वमपि कृपणं स्तौषि नार्थाशया यः
स्तोतव्यस्त्वं बधिर! न गिरं यः खलानां शृणोषिः॥ ४१५॥