मतमुत्प्रेक्षोपमोत्प्रेक्षावयवश्च उत्प्रेक्षैव। तेषु—
यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शश इति, न तन्मां प्रति तथा।
अहं त्विन्दुं मन्ये त्वदरिविरहक्लान्ततरुणी— कटाक्षोल्कापात—व्रण—किण—कलङ्काङ्कित—तनुम्॥ ४१९॥
उत्प्रेक्षोपमा यथा—(भामहा. २.९२)
किंशुकव्यपदेशेन तरुमारुद्य सर्वतः।
दग्धादग्धामरण्यानीं पश्यतीव विभावसुः॥ ४२०॥
उत्प्रेक्षावयवो यथा—(कुसं. ८.५३)
अङ्गुलीभिरिव केशसञ्चयं संनिगृह्य तिमिरं मरीचिभिः।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ ४२१॥