दइअणहदूमिआणं वि वड्ढइ थणाणँ रोमञ्चो॥ ४२४॥
(यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्य/सुखं ददाति।
दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः॥)
उभयन्यासः, प्रत्यनीकन्यासः, प्रतीकन्यासोऽपि चार्थान्तरन्यास एव। तत्र उभयन्यासो यथा—(सेब. ३.९)
ते विरला सप्पुरिसा जे अभणंता घडंति कज्जालावे।
थोअ च्चिअ ते वि दुमा जे अमुणिअकुसुमणिग्गमा देंति फलं॥ ४२५॥
(ते विरलाः सत्पुरुषा येऽभणन्ता घटयन्ति कार्यालापान्।
स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम्॥)
विरला उवआरि च्चिअ णिरवेक्खा जलहर व्व वट्टंति।