झिज्जंति ताण विरहे विरल च्चिअ सरिप्पवाह व्व॥ ४२६॥
(विरला उपकारिण एव निरपेक्षा जलधरा इव वर्तन्ते।
क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव॥)
प्रतीकन्यासो यथा—(शाकु. ३.१)
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति॥ ४२७॥
जात्यादिवाचिना पदेन सर्ववाक्योपकारो दीपकम्।
तत्त्रिधा— क्रियादीपकं, कारकदीपकं, मालादीपकं च। तत्र— क्रियादीपकं यथा—(काव्याद. २.१०६)
त्वया कर्णोत्पलं कर्णे स्मरेणास्त्रं शरासने।