उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम्।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः॥ ४३१॥
हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते कामी॥ ४३२॥
उभयावृत्तिर्यथा—(मामा. ९.४)
जय देव! भुवनभावन! जय भगवन्! निखिलवरद! निगमनिधे!।
जय चारुचन्द्रशेखर! जय मदनान्तक! जयादिगुरो!॥ ४३३॥
क्रियापदादीनामुपस्कारः परिकरः।