प्रेरित/पीडितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता॥)
देवी पुत्रमसूत नृत्यत गणाः! किं तिष्ठतेत्युद्भुजे हर्षाद् भृङ्गिरिटावुदाहृतगिरा चामुण्डयालिङ्गिते।
पायाद् वो जितदेवदुन्दुभिघनध्वानप्रवृत्तस्तयो— रन्योन्याङ्गनिपातजर्जरतरस्थूलास्थिजन्मा रवः॥ ४३६॥
सा त्रिधा— शब्दैकावली, अर्थैकावली, उभयैकावली च।
शब्दैकावली यथा—(न.च. ६.२९)
पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम्।
हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी॥ ४३७॥