स त्रिधा— क्रियापरिकरः, कारकपरिकरः, वस्तुपरिकरश्च।
क्रियापरिकरो यथा—(सेब. ४.५७)
ववसिअणिवेइअत्थो सो मारुइलद्धपच्चआगअहरिसं।
सुग्गीवेण उरत्थलवणमालामलिअमहुअरं अवऊढो॥ ४३४॥
(व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम्।
सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः॥)
कारकपरिकरो यथा—(सेब. ११.५४)
पडिआ अ हत्थसिढिलिअणिरोहपंडरसमूससंतकवोला।
पेल्लिअवामपओहरविसमुण्णअदाहिणत्थणी जणअ—सुआ॥ ४३५॥
(पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला।