मया च मरणे चेतस्त्रयमेतत् समं कृतम्॥ ४२८॥
कारकदीपकं यथा—(काव्याद. २.९८)
पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधाम्।
स एव च नताङ्गीनां मानभङ्गाय कल्पते॥ ४२९॥
इमिणा सरएण ससी ससिणा वि णिसा णिसाइ कुमुअवणं।
कुमअवणेण अ पुलिणं पुलिणेण अ सोहए हंसउलं॥ ४३०॥
(अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम्।
कुमुदवनेन च पुलिनं पुलिनेन च हसति हंसकुलम्॥)
आवृत्तिरपि दीपकमेव। सापि त्रिधा — शब्दावृत्तिरर्थावृत्तिरुभयावृत्तिश्च। शब्दावृत्तिर्यथा—(काव्याद. २.११८)