एतेनालोकाभावेऽन्घकारव्यपदेशोऽपि गौणार्थविषय एवेत्युक्तं भवति। तदुक्तम्—
यत्र न प्रथते किंचित्तत्र तावन्न विभ्रमः।
सुषुप्त इव, भूच्छाया तमोभावोऽथवेक्ष्यते॥ ४२५॥
अत्रोच्यते—'आकृतिवादिनो मते प्रतिकृतिप्रतिमाचित्रादिमृद्गवकादिषु गवादिव्यपदेशा मुख्या एवेति न गौणतां विगाहन्ते। न हि तत्र गौणताहेतुः सादृश्यं परिस्फुरति। शुक्तिकारज्जुमृगतृष्णादिषु विपर्ययज्ञानतो य एते रजतोरगजला— दिव्यपदेशाः, तेऽपि भ्रान्तिमुख्यत्वेन तत्तद्भावापत्तयो न गौणाः। यतः—
अत्यन्तविपरीतोऽपि यदा२ योऽर्थोऽवधार्यते।
यथासम्प्रत्ययं शब्दस्तत्र मुख्यः प्रयुज्यते॥ ४२६॥
आचार्याश्च पूर्वेऽपि सर्वत्र तुल्यमेव शब्दस्य प्रवृत्तिनिमित्तं भवितुमर्हतीति मन्यमाना बुद्धिप्रतिभासमात्रेणैव शब्दस्यार्थेषु प्रवृत्तिं मन्यन्ते। तद्यथा—
सन्निहितरजतशकले रजतमतिर्भवति यादृशी सत्या।