यस्यस्माल्लक्ष्यते भेदस्तमसत्यं प्रचक्षते॥ ४२१॥ (वाप. २.२८९)
एतेन क्षुपातपादिषु गन्धर्वनगरादयो व्याख्याताः। देशविशेषेषु क्षुपग्रावादौ विप्रकीर्यमाण आतप उपर्यवस्थिताब्भ्रप्रतिघातात् प्रतिनिवृत्तः क्षुपादीनामपचित— परिमाणानां परिमाणोपचयमावहन् गृहप्राकारतोरणोपवनसन्निवेशेनावभासमानो १. रात्रौ प्रदीप दी=रात्रौ(रवेः) प्रदीप(पृषत्सु)दी.'—राघवः गन्धर्वनगरमित्युच्यते। तत्र यथा वप्रादिभिर्मुख्येषु नगरेषु गच्छतां प्रतिघातो दस्युभयरक्षादीनि च कार्याणि प्रकल्पन्ते न तथा गन्धर्वनगरेषु, तद्देशस्थैरेव च तानि न दृश्यन्त इति न तेषां मुख्यशब्दविषयत्वम्। तदाह—
वप्रप्राकार१कल्पैश्च स्पर्शनावरणे यथा।
नगरेषु तथा नैवं गन्धर्वनगरेषु ते॥ ४२२॥ (वाप. २.२९२)
प्रतिबिम्बं तु हस्त्यादिसरूपमादर्शादिषु दृश्यमानमपि प्रमाणभेदेनायथार्थम— वसीयते। हस्त्यादिप्रमाणेन प्रकृष्टदेशव्यापिना भवितव्यम्। न चादर्शस्यान्तरियान् देशः सम्भवति। तदुक्तम्—
महानाव्रियते देशो मुख्यैः स्तम्बेरमादिभिः।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते॥ ४२३॥ (वाप. २.२९४)
कर्णक्ष्वेडायामप्यश्रवणत्वेन घोष इति व्यपदेशो न मुख्यः। तदाह—
कर्णौ पिघाय यः शब्दः श्रूयतेऽनाहताह्वयः।
न तस्य घोष इत्याख्या मुख्यवृत्त्योपपद्यते॥ ४२४॥