यत्र निम्नोन्नतं चित्रे १सरूपं पर्वतादिभिः।
न तत्र प्रतिघातादिकार्यं तद्वत्प्रवर्तते॥ ४१६॥
शुक्तिकायां तु प्रत्ययाधीनेऽपि रजतरूपावधारणे क्वचित् तद्विषयाणां प्रत्ययानां व्यभिचारेण या प्रवृत्तिः सैवामुख्यभावं व्यवस्थापयति। यदाह—
यद्यपि प्रत्ययाधीनमर्थतत्त्वावधारणम्।
न सर्वः प्रत्ययस्तस्मिन् प्रसिद्ध इव जायते॥ ४१७॥
(वाप. २.२८६) १. स्वरूप० HOS
रज्जुद्रव्ये यद्यपि वर्णसंस्थानद्वारेण सर्पबुद्धिः पुनःपुनरुत्पद्यते, तथापि यत्साधारणं काष्णर्यदैर्घ्यादि तदपास्य श्वासदंशादिभिरसाधारणधर्मैर्मुख्यविषयं परिच्छिद्य गौणत्वमवधार्यते। उक्तं च—
यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः।
तेन भेदपरिच्छेदस्तयोः तुल्येऽपि दर्शने॥ ४१८॥