तिष्ठतीत्यादिभिस्तैस्तु शब्दैः सैवाभिधीयते॥ ४१३॥
अतो लब्धमुख्यार्थानां खपुष्पशशविषाणादिशब्दानामन्यत्रापि प्रसिद्धान्यथा— वस्थायिन्यर्थे गौणः प्रयोग उपपन्नो भवति। (तवा)
ननु च सादृश्येन प्रवर्तमानो गौण इत्यभ्युपगमे — प्रकृतिषु मृद्गवकादय इति, प्रतिमासु वासुदेवादय इति, चित्रेषु पर्वतादय इति, शुक्तिकायां रजतमिति, रज्जावहिरिति, मृगतृष्णायां तोयमिति, अलातसम्पाते चक्रमिति, पयःपृषत्सूर्यरश्मिषु सुरायुधमिति, क्षुपातपादिषु गन्धर्वनगरमिति, प्रतिबिम्बे स्तम्बेरम इति, कर्णक्ष्वेडायां घोष इति आलोकाभावेऽन्धकार (वाप. २.२८७–२९५) इति च यो व्यपदेशः, तस्यापि गौणत्वं प्राप्नोति। एतेषामपि हि प्रवृत्तौ सादृश्यमेव निमित्तम्। तथा हि— मृद्गवकादयः कस्यचिदेव सदृशस्य धर्मस्य भावादुपमानोपमेयसम्बन्धे सति 'इवे प्रतिकृतौ' (५.३.९६) इत्येतत् प्रकरणविहितानां प्रत्ययानामुत्पत्तौ निमित्तत्वं लक्षन्ते। युक्तं चैतत्। यतः— (वाप. २.२९३)
मृगपश्वादिभिर्यावान् मुख्यैरर्थः प्रसाध्यते।
न तावान् मृन्मयेष्वस्ति तस्मात् ते विषयाः कनः॥ ४१४॥
एतेन प्रतिमादिषु वासुदेवादयो व्याख्याताः। तथा हि ते मुख्या वरप्रदानदानवो च्छेदादिकर्मसु साधनत्वेन व्यवतिष्ठन्ते न तथा ग्रावमया वा दारुमया वा। तदुक्तम्—
त्रैलोक्यत्राणसामर्थ्यं साक्षाद् विष्णोर्यदुच्यते।
शिल्पिभिः कल्प्यमानस्य न तदर्चासु दृश्यते॥ ४१५॥
एवं चित्रे पर्वतादिस्वरूपस्य निम्नोन्नतादित्वेन यद् ग्रहणं तदपि तत्सहचरितप्रपातप्रतिघातादेरभावादधः क x x x x वावस्थाने निम्नोन्नतवृत्तेर्निवृत्तिदर्शनादयथार्थमेवावस्थाप्यते। तदुक्तम्—