भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1561 to 1570 of 1676 verses
(वाप. २.२८८)

मृगतृष्णायां पुनर्यद्यपि सलिलनिर्भासा चक्षुर्द्वारिका तथाभूतैव बुद्धिरुत्पद्यते, तथापि स्पर्शनस्‍नानपानादीनामभावात् तद्देशप्राप्‍तौ चादर्शनान्नेदं सलिलमिति प्रत्ययेन बाध्यते। आहुश्च—

दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः।

भेदात्तु स्पर्शनादीनां न जलं मृगतृष्णिका॥ ४१९॥ (वाप. २.२८७)

अलातचक्रेऽपि चक्रबुद्धौ चक्षुषा रूपप्रबन्धावग्रहवन्न हस्तेन स्पर्शप्रबन्धोऽव— गृह्यते। क्रियाविरामे च तस्य ज्योतिषश्चक्रवदाकारो नोपलभ्यते। अविच्छिन्ना— भिनिपातेनैव हि ज्योतिषा नित्यावरुद्ध इव प्रायेण तत्र रूपग्रहणदेशो रूपग्रहणकालश्च विभाव्यते। तस्मादपार्थं तद्‍ग्रहणमविषयो मुख्यस्य शब्दस्येति। उक्तं च—

स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य सन्ततः।

न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते हि तत्॥ ४२०॥

(वाप. २.२९१)

एवमिन्द्रायुधेऽपि यथा रात्रौ १प्रदीपदीप्‍तिसन्निपातान्नीलपीतादीनां वर्णभेदो लक्ष्यते तथा हि न सूर्यरश्मिसम्पर्काद् घनारघट्टादिपयःपृषताम् इति मिथ्यात्वान्मुख्यत्वम्। तदाह—

प्रसिद्धार्थविषर्यासनिमित्तं यच्च दृश्यते।

Showing 1561 to 1570 of 1676 verses