मृगतृष्णायां पुनर्यद्यपि सलिलनिर्भासा चक्षुर्द्वारिका तथाभूतैव बुद्धिरुत्पद्यते, तथापि स्पर्शनस्नानपानादीनामभावात् तद्देशप्राप्तौ चादर्शनान्नेदं सलिलमिति प्रत्ययेन बाध्यते। आहुश्च—
दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः।
भेदात्तु स्पर्शनादीनां न जलं मृगतृष्णिका॥ ४१९॥ (वाप. २.२८७)
अलातचक्रेऽपि चक्रबुद्धौ चक्षुषा रूपप्रबन्धावग्रहवन्न हस्तेन स्पर्शप्रबन्धोऽव— गृह्यते। क्रियाविरामे च तस्य ज्योतिषश्चक्रवदाकारो नोपलभ्यते। अविच्छिन्ना— भिनिपातेनैव हि ज्योतिषा नित्यावरुद्ध इव प्रायेण तत्र रूपग्रहणदेशो रूपग्रहणकालश्च विभाव्यते। तस्मादपार्थं तद्ग्रहणमविषयो मुख्यस्य शब्दस्येति। उक्तं च—
स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य सन्ततः।
न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते हि तत्॥ ४२०॥
एवमिन्द्रायुधेऽपि यथा रात्रौ १प्रदीपदीप्तिसन्निपातान्नीलपीतादीनां वर्णभेदो लक्ष्यते तथा हि न सूर्यरश्मिसम्पर्काद् घनारघट्टादिपयःपृषताम् इति मिथ्यात्वान्मुख्यत्वम्। तदाह—
प्रसिद्धार्थविषर्यासनिमित्तं यच्च दृश्यते।