प्रवर्तमानोऽपि यस्यार्थं योऽवलम्बते।
निमित्तं तत्र मुख्यः स्यान्निमित्ती गौण इष्यते॥ ४१२॥
नन्वेवं सति खपुष्पशशविषाणादीनां स्वार्थाविनाभूतगुणाभावात् गौणप्रयोगाभावप्रसङ्गः। तथा हि—यस्तावत्खपुष्पमात्मा शशविषाणं भवत्सिद्धान्त इति प्रयोगस्तत्र कतरत् त्वयान्यत्खपुष्पादिकमात्मादिव्यतिरिक्तमग्निसिंहगवादिवदवधारितं यद्गुणद्वारेणात्मादिषु पुवर्तमाना खपुष्पादयो गौणा भवेयुः। अतः प्रथमप्रतीतत्वात् खपुष्पादेरात्मादिरर्थो न मुख्यत्वादपैति। कथमसतो मुख्यत्वमिति चेत्तुल्यमिदं गौणत्वेऽपि। उच्यते— खपुष्पशशविषाणादयः शब्दा अत्यन्ताभावाद्युपाधिषु पदार्थेषु लब्धमुख्यव्यपदेशा नास्तीत्यादिधर्मयोगादात्मादिषु प्रयुज्यमाना गौणभावं लभन्ते। तथा हि— सदसती तत्त्वे इति न्यायात्पुष्पमित्युक्ते अस्ति नास्तीति प्रसङ्गः। तत्र यथा लतादिसम्बन्धादस्तीति गम्यते तथाऽऽकाशादिसम्बन्धान्नास्तीति गम्यते। कथं तर्हि खपुष्पं नास्तीति प्रयोगः?
पूर्वेणैवावगतेऽभावे नास्तिशब्दोऽनुवादक इति केचित्, बाधक इति केचित्।
यदि वा खस्य पुष्पमित्यवयवार्थौ प्रसिद्धौ, समासाच्च राजपुरुषादिवत् सामान्यतोदृष्टेनानुमानेन षष्ठ्यर्थस्मृतिः प्रसक्ता। न च कदाचिदाकाशस्य कुसुमानाश्रयत्वमवधारितपूर्वं तस्यैतत्संसर्गानुसन्धानं वार्यते।
एतेन नास्ति शशविषाणमित्पपि व्याख्यातम्।
अथवा शशमूर्धवर्तिनां पृथिव्यवयवानामुपर्युपरिचीयमानदृढदीर्घसन्निवेशरूपेणा— परिणतानां नीचैर्वृत्त्या यदवस्थानं सोऽस्य वाक्यस्य विषयः सम्भवतीत्यविरोधः।
न चैतद् वाच्यम् अभावो भावशब्दैर्नाभिधीयत इति। यतः—
यां निषेधाः क्रियामाहुर्न यातीत्येवमादयः।