अन्यथावस्थितस्यान्यथोत्प्रेक्षणम् उत्प्रेक्षा।
सा त्रिधा— द्रव्यविषया, गुणविषया, क्रियाविषया च। तत्र— द्रव्यविषया यथा—
देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा।
अन्यार्धार्धमिवोत्पन्नमर्धनारीश्वरान्तरम्॥ ४१६॥
पल्लविअं विअ करपल्लवेहिं॥ ४१७॥
सेनागजाः स्वकरपुष्करलेखनीभिर्गण्डस्थलान्मदमषीं मुहुराददानाः।
मन्ये नरेन्द्र! तव तोयधितीरतालीपत्रोदरेषु विजयस्तुतिमालिखन्ति॥ ४१८॥