वस्तूपन्यस्य तत्साधनसमर्थस्य वस्तुनोऽयस्य न्यसनमर्थान्तरन्यायः। स त्रिधा— साधर्म्येण, वैधर्म्येण, विपर्ययेण च।
साधर्म्येण यथा—(काव्याद. २.१७३)
पयोमुचः परीतापं हरन्त्येते शरीरिणाम्।
नन्वात्मलाभो महतां परदुःखोपशान्तये॥ ४२२॥
वैधर्म्येण यथा—(किराता. ८.३७)
प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥
विपर्ययेण यथा—(गास. १.१००)
जो जस्स हिअअदइओ दुक्खं देंतो वि सो तहा तस्स/सुहं देइ।