भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1591 to 1600 of 1676 verses
भेदानध्यवसाये शुक्तावपि तादृशी स्फुरति॥ ४२७॥

अलातचक्रादिषु च त्रिषु चक्रमिव चक्रमायुधमिवायुधं नगरमिव नगरमित्यवयवशब्दानां यद्यपि गौणत्वं घटते, तथापि समुदायशब्दानामेतेष्वेवार्थेषु स्वरूपासङ्गाद् मुख्यत्वमेव।

१अग्‍नीषोमादयः शब्दा ये स्वरूपपदार्थकाः।

संज्ञिभिः संप्रयुज्यन्ते तेषां सर्वत्र मुख्यता॥ ४२८॥

अग्‍निदत्ते२ तु योऽग्‍निस्स्यात् तत्र स्वार्थोपसर्जनः।

शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते॥

(वाप. २.२८१–२८२)

एवं गन्धर्वनगरादयोऽपि यदा दृष्टनष्टादिपदार्थेषु तत्साधर्म्यात् प्रयुज्यन्ते तदा गौणा भवन्ति। प्रतिबिम्बेषु यदादर्शादिप्रतिहतनयनरश्मिना स्वमुखादय एव दृश्यन्ते तथापि न गौणत्वम्, अपि तु देशान्तरावस्थानेन प्रतिभासाद् भ्रान्तिमुख्यत्वमेव; अर्थान्तरमेव च्छायारूपमुत्पद्यते; तस्य प्रतिबिम्बं मुखच्छायेति व्यपदेशे मुख्यत्वं, मुख्यमित्यादौ तु गौणत्वं भवति। कर्णक्ष्वेडायामपि यदा श्रोत्रेन्द्रियस्य बहिर्वृत्ति निरोधाज्जाठराग्‍निपच्यमानान्नरसादिशब्दः श्रूयते, अनाहताख्यं वा शब्दब्रह्मोन्मिषति, तदा तयोः घोषव्यपदेशो मुख्य एव।

किं पुनरनाहताख्यं शब्दब्रह्म?

उच्यते— 'शब्दब्रह्मणश्चतस्त्रोऽवस्थाः, वैखरी, मध्यमा, पश्यन्ती, सूक्ष्मेति। तत्र

Showing 1591 to 1600 of 1676 verses