भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1601 to 1610 of 1676 verses
(वैखरी)

येयं स्थाकरणप्रयत्‍नक्रमव्यज्यमानगकारादिवर्णसमुदायात्मिका वाक् सा वैखरी। तत्र विशिष्टं खं सुखमिति दुःखमिति वा राति प्रयच्छतीति विखरो देहेन्द्रियसङ्घातः। तथा च श्रुतिः, 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत' (छान्दो. उ. ८.१२.१) इति।

तत्र भवा वैखरी।

१. यथा ह्यग्न्य J. त(य)था ह्यग्न्या HOS, अग्‍निसोमा २. 'अग्‍निदत्तस्तु' HOS,

(मध्यमा)

या पुनरन्तस्सञ्जल्परूपा क्रमवती श्रोत्रग्राह्यवर्णाभिव्यक्तिरूपा सा मध्यमा।

(पश्यन्ती)

या तु वर्णविभागाभावादक्रमा स्वयंप्रकाशा च सा पश्यन्ती।

(सूक्ष्मा)

या पुनरनाद्यविद्यावासनोपप्लवमानशब्दार्थभेदरहितावबोधरूपब्रह्मशब्दवाच्या स्वरूपज्योतिरेवात्मनोऽन्तरनपाया प्रकाशते सा सूक्ष्मा। तदुक्तम्—

Showing 1601 to 1610 of 1676 verses