गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मुनष्या वदन्ति॥ ४३३॥
तत्र गुहाशयेषु त्रिषु यदेतत् सुक्ष्मेति गोयते ते तदनाहतमित्यामनन्ति। एवमालोकाभावेऽन्धकार इति प्रतीतेर्विपर्ययज्ञानत्वाच्छुक्तिकादौ रजतादिबुद्धेरिव भ्रान्तिमुख्यत्वमेव न गौणता।
ननु चोत्तरकालभाविना सम्यग्ज्ञानेन यस्य बाधः, तदेव विपर्ययज्ञानम्; अन्धकारे तु तदभावात् कथमिवैतद्युज्यते?
तत्र हीदमीदृशम्, अल्पं बहु, बहुलमच्छं, गच्छति तिष्ठति, उत्पद्यते विनश्यत्यर्थक्रियां करोतीति वस्तुधर्मनिबन्धनेन देशकालपुंविशेषेषु सर्वेष्वाबाध्यमानो प्रत्ययव्यपदेशो दृश्यते। तथा हि यत्तदानीं गिरिगुहास्वपि तमः अतसी— कुसुमश्याममासीत् तदानीमुपवनेष्वप्यञ्जनचयप्रौढं वर्तते, सम्प्रत्याच्छादिता दिशः सन्तससेनेति यादृगेतत् तत्रैकदा प्रतीतिस्तादृगन्यत्रान्यदापि, यादृगेकस्य तादृगन्यस्यापि परिदृश्यते। आलोकोत्पत्तावपि विनष्टं तम इति प्रतीतिर्, न पुनर्मिथ्यैतदिति।
किमस्याः प्रतीतेः कारणमिति चेद्, व्यवहिततमःप्रतिभासे विस्फारिते चक्षुषि दर्शनात्, तदभावे चादर्शनात्। तदेवात्र कारणम्। चक्षुष्मन्तो हि तमसि निलीयन्ते, तमः परिहरन्तोऽन्येन पथा वा गच्छन्ति।
ननु निमीलिताक्षस्यापि तमःप्रतिपत्तेर्न चक्षुषः कारणत्वम्।
अत्रैके वर्णयन्ति— निमीलिताक्षस्य बहिर्वृत्तिनिरोधादन्तःसंविलीनेन्द्रियवृत्तिः पक्ष्मणोरेव छायां गृह्णातीति।
न च गोलकशौक्ल्यस्यापि ग्रहणमस्ति, सामीप्यात्। अन्धस्यापि च तमः—प्रतिपत्तेर्नैतदेवमिति चेत् तन्न जानीमः। त एवात्र प्रष्टव्याः।