यत्र तन्निमीलिताक्षपक्ष्मच्छायायां गृह्णातीति, तदाचष्टामायुष्मान् केयं छाया नामेति?
ननुक्तं पार्थिवं द्रव्यं यस्यां दिश्यालोकस्तदन्यतश्छायामारभते।
तन्न, तस्यास्तदारब्धत्वे तद्गुणयोगप्रसङ्गात्। ततश्च रूपमनेकप्रकारं शुक्लादि। रसः षडि्वधो मधुरादिः। गन्धो द्विविधः सुरभिरसुरभिश्च। स्पर्शोऽनुष्णाशीतत्वे सति पाकजः। 'सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवताऽद्भिस्सामान्यम्' (वै.सू. २.१.१) इति नैमित्तिकद्रवत्वम्, अन्येऽपि च गुरुत्वकठिनत्वादयः पृथिवीधर्माः छायायां प्रसज्येरन्।
कथं तर्हि छाया आगच्छति, अस्यां छायायामुपविशामः, छाया मधुरशीतलेति च व्यपदेशो भवति?
उच्यते—'यत्र यत्र चारकद्रव्येण तेजःप्रसरो निरूप्यते तत्र तत्र तेजोद्रव्याभावे छायेति विपर्ययप्रतीतेरुदयः। छाया मधुरशीतलेति तस्यामेवोपचरितो व्यवहारः। यथा— 'आनन्दो ब्रह्मणो रूपम्' (न्यायभूषणम्) इति। एतेनैतदपि निरस्तम्। तस्य मिथ्यात्वेऽन्यस्य किमायातमिति। उक्तन्यायेन द्वयोरपि मिथ्याप्रत्ययत्वात्। यदि ह्यमिथ्यैव तमो नाम वस्तुविशेषः स्यात् तदालोकसद्भावेऽप्यन्यवस्तुवद् गृह्येत।
विरोधित्वादालोकस्य तदग्रहणमिति चेत् किमस्य विरोधिनालोकेन क्रियते, तिरोधानम्, अपसारणं, विनाशो वा?
न तावत् तिरोधानं, रूपवस्तुग्रहणे तस्यानुग्राहकत्वादतोऽन्यनीलद्रव्यवदालोके सुतरां तमसोऽपि ग्रहणप्रसङ्गः। यदि च विद्यमानमेव तमस्तिरोधीयते तस्य पदार्थाच्छादकस्वभावत्वात् तमसीवालोकेऽपि न कश्चित् कञ्चनापि पश्येत्। तमसा हि सर्वे पदार्थाः पिहितास्तमोऽप्यालोकेनेति।
न चोपलभ्यमानानामेव तिरोधायकत्वं, शब्दतिरोधायकेषु स्तिमितेषु वायुषु रूपपिधायकेषु पटलादिषु च व्यभिचारात्।