दशत्यसौ परभृतः सहकारस्य मञ्जरीम्।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम्॥ ४४३॥
राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमार कुशलं नाद्याज्जुके भुज्यते।
इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा— च्चित्रस्थानवलोक्य वेश्मवलभीष्वेकैकमाभाषते॥ ४४४॥
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः।
रतिमभ्युपपत्तुमातुरां मधुरात्मानसदर्शयत्पुरः॥ ४४५॥
विशेषस्य विवक्षया लोकवृत्तानतिक्रमेणात्युक्तेरभिधानमतिशयः. यथा—