अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ ४४९॥
निषेधाक्षेपः शुद्धो यथा—(काव्याद. २.१२३)
कुतः कुवलयं कर्णे करोषि कलभाषिणि!।
किमपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे॥ ४५०॥
सच्चं गुरुओ गिरिणो को भणइ जलासआ ण गम्भीरा।
धीरेहिं उवमाउँ तह वि खु मह ण त्थि उच्छाहो॥ ४५१॥
(सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः।