जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम्॥)
आधिक्येन न्यूनतया वोत्कर्षविवक्षा विशेषोक्तिः। तत्र— आधिक्येन यथा—(विक्र. ३.११)
अयं तया रथक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः॥ ४५४॥
न्यूनतया यथा—(काव्याद. २.३२४)
न कठोरं न वा तीक्ष्णं शस्त्रं कुसुमधन्वनः।
तथापि जितमेवाभूदमुना भुवनत्रयम्॥ ४५५॥
एकपदेनानेकार्थाभिधानं श्लेषः।