स षोढा —अभिन्नपदो, भिन्नपदश्च; अभिन्नक्रियो भिन्नक्रियश्च; अभिन्नकारको भिन्नकारकश्चेति। तेषु —
अभिन्नपदो यथा—(काव्याद. २.३२४)
असावुदयमारूढः कान्तिमान् रक्तमण्डलः।
राजा हरति लोकस्य हृदयं मृदुभिः करैः॥ ४५६॥
भिन्नपदो यथा—(काव्याद. २.३१२)
दोषाकरेण संबध्नन् नक्षत्रपथवर्तिना।
राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते॥ ४५७॥
अभिन्नक्रियो यथा—(काव्याद. २.३१६)
स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम्।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान्॥ ४५८॥