धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः॥)
रोधोऽपि निषेधाक्षेप एव। यथा—
किं जम्पिएण दहमुह जम्पिअसरिसं अणिव्वहन्तस्स भरं।
एत्तिअ जम्पिअसारं णिहणं अण्णे वि वज्जधारासु वआ॥ ४५२॥
(किं जल्पितेन दशमुख जल्पितसदृशमनिर्वहतो भरम्।
एतावद् जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः॥)
पउरजुआणो गामो महुमासो जोव्वणं पई ठेरो।
जुण्णसुरा साहीणा असई मा होउ किं मरउ॥ ४५३॥
(प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः।