अहो विशालं भूपाल भुवनत्रितयोदरम्।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते॥ ४४६॥
स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये! तव।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते॥ ४४७॥
विधिनिषेधाभ्यां प्रतिषेधोक्तिराक्षेपः। स द्विधा— शुद्धमिश्रभेदात्। तत्र— विध्याक्षेपः शुद्धो यथा—(काव्याद. २.१४१)
गच्छ गच्छसि चेत् कान्त! पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्॥ ४४८॥