तदपि न; प्रदीपार्चिषान्तर्गृहमपसारिते तमसि बहिरन्धकारप्रसङ्गात्।
नापि विनाशः, आलोकेन हि विनाशिते आलोकापसारसमनन्तरमुत्पत्ति— कारणाभावे कुतस्तमसामुपलब्धिः?
न चालोकाभाव एव कारणम्, अभावस्य शून्यरूपत्वेन अनाकारकत्वात्। न चान्यदुत्पादे कारणं पश्यामः।
नन्वेवमालोकाभावमात्रमेव तम इति स्यात्।
नैवम्; न ह्यलोकाभाव एवात्र गृह्यते, अभावस्याप्रमेयत्वात्। आलोकज्ञानप्रत्यस्तमयमात्रादेव चालोकाभावव्यवहारसिद्धेः। यदि वात्राभावः प्रतिभासत इत्युच्यते, ततो यस्याभावो यत्र चाभावस्तत्पदार्थद्वयपुरस्सरमत्र प्रतिभासेन भवितव्यम्, अनवच्छिन्नस्याभावस्याप्रतिपत्तेः। न च तमसि गृह्यमाणे नियमेनालोक— स्मरणम्, अस्मर्यमाणस्य न व्यवच्छेदकत्वम्। प्रतिभासानुगुणं चालम्बनं परिकल्प्यते, न चाभावस्यातद्रूपस्य कृष्णरूपविशेषावभासिन्या तमस्सञ्चित्यानुगुण्यमस्ति।
अपि चास्मिन् पक्षे आलोकाभावपर्यायता तमश्शब्दस्य। ततश्च हस्तकरशब्दयोरिव तदर्थप्रतिभासभेदो न स्यात्। तस्मान्न किंचिदनुगृह्यते। किन्त्वग्रहण एवायं ग्रहणाभिमानः, मिथ्याज्ञानस्य विपर्ययस्वरूपत्वात्। आह च विपर्ययोदाहरणं प्रशस्तपादः 'व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरतलमञ्जनचूर्णपुञ्जश्यामलं शार्वरं तम' (प्रपाभा.) इति।
नन्वेवमन्धकारप्रतीतेर्विपर्ययत्वे विपर्ययात्मिकायास्तद्भावापत्तेरिदमुदाहरणं युज्यते, न तु प्रवादात्मिकायाः। प्रवादात्मिकायां त्विदमुदाहृतं पुरस्तात् (ऋप्र. ३५७)।
गन्धर्वपुरसुरायुधकुरङ्गतृष्णान्धकाररूपाणि।
असतामसत्यदुर्ग्रहदुरापमलिनानि वृत्तानि॥ ४३४॥