भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1661 to 1670 of 1676 verses
उच्यते—(वाप. २.२९६)

देशकालेन्द्रियगतैर्भेदैर्यैद् दृश्यतेऽन्यथा।

यथा प्रसिद्धिर्लोकस्य तथा तद्‍व्यपदिश्यते॥ ४३५॥

तत्र प्रसिद्धार्थविपर्ययहेतुभ्यो मद्यविषपानमरुदेशावस्थानादिभ्यः प्रसिद्धा— कारेष्वर्थेषु दर्शनविपर्यासो जायते। निशायां रक्तकम्बलहस्तिवनादिषु वर्णप्रमाण— संहत्यादिभेदो दृश्यते। तिमिरोपघात—काच—कामलादिभ्यः केशोण्डुकद्विचन्द्रा— दिष्वयथार्था प्रतीतिरुदयते। अर्धनिमीलिते चक्षुषि रूपभेदप्रतिपत्तिर्भवति। भ्रमणावस्थाननौयानादिषु च पृथिवीपर्वतादीनामन्यथाक्रमः उपलभ्यते। कारणापगमे च पुनर्यथार्थैव प्रतिपत्तिरुदेति। तत्र सन्देहे सति यद्यत् समधिगतनिमित्तमन्यत्राविपर्यये दृष्टसामर्थ्यं प्रसिद्धं लोको हि सर्वेषां विदुषामविदुषां च व्यवहारव्यवस्था— हेतुरलङ्घनीयः प्रमाणम्। तदतिक्रमात् सर्वत्र वैरस्यं लभते। लोके च केशोण्डुकद्विचन्द्रशुक्तिकारजतादीनामेव विपर्ययत्वेन प्रसिद्धिः, गन्धर्वनगरेन्द्रायुधमृग— तृष्णान्धकारादीनां विपर्ययत्वेऽपि वा गन्धर्वनगरादिप्रवादोऽभ्यधिकं रूपमेतेषामिति॥

तदेतद् दोषहानं च गुणोपादानमेव च।

ज्ञात्वा कुर्वन् कविः काव्यं प्रेत्य चेह च नन्दति॥ ४३६॥

निर्दोषं गुणवद् यस्य सालङ्कारं रसान्वितम्।

सतां वसति चेतस्सु वचः स दिवि मोदते॥ ४३७॥

इत्येष दोषपरिवर्जनया गुणाना—

मावर्जनेन च किलोभयथान्तरङ्गः।

Showing 1661 to 1670 of 1676 verses