अन्ये त्वाहुः यथा विस्फारिताक्षस्येदमिदमीदृशं चेति स्पष्टरूपतयावगतिः, नैव निमीलिताक्षस्य, तस्य न किंचित्पश्यामीति, प्रतिपत्तिप्रत्यस्तमयात्। यद्यपि चात्र प्रतिभासः, तथापि निमित्तपर्यालोचनया तस्य मिथ्यात्वे, अन्धस्य किमायातम्? न हि स्वप्ने रजतज्ञानमिथ्यात्वेऽन्यदापि रजतज्ञानं मिथ्या भवितुमर्हति। अत एव चोन्मीलिताक्षस्य बाधकं विज्ञानमुत्पद्यते, न पुनस्तमसीति।
मूर्तद्रव्यच्छाया च तमः; पार्थिवं हि द्रव्यं यस्यां दिश्यालोकस्तदन्यतः छायामारभते। सा च सर्वैरपि वस्तुत्वेन प्रतीयते, व्यपदिश्यते च इयं छाया गम्यताम्, अस्यां छायायामुपविशामः, छाया मधुरशीतलेति। तदेवमखिलवस्तु— साधर्म्येणैव चक्षुषोपलक्ष्यमाणे कृष्णरूपे तमसि कथमभिधीयते न तमो नाम किंचिद् वस्तुरूपमस्तीति?
उच्यते—'अस्त्येतत्, किंतु युक्त्या न संगच्छते। तथा हीदं तम इति साक्षात्कारेण प्रतिभासाल्लिङ्गादन्य एवायम्।
यदि परं प्रत्यक्षमेतद् विज्ञानं स्यात्?
तत्तु त्रेधा—आत्मप्रत्यक्षं मनःप्रत्यक्षमिन्द्रियप्रत्यक्षं चेति। तत्र विनैव ग्राहकान्तरमात्मनो यदपरोक्षलक्षणं विज्ञानं तदात्मप्रत्यक्षम्। तच्चानुभवस्येव स्वप्रकाशतया वा स्याद्, विषयस्येव अनुभूयमानतया (वा)। न तावत् स्वप्रकाशतया, तमसोऽनुभूयमानत्वेन प्रतिभासात्। नाप्यनुभूयमानतया, विनैवेन्द्रियैरयोगिनो विषये ग्रहणायोगात्।
केवलमनस्सहायस्यात्मनो यद्विज्ञानं तन्मनःप्रत्यक्षम्; तदप्यन्तरनुभूयमान— सुखदुःखादिविषयं वा स्यात्, बहिरनुभूतप्रियस्त्रगादिविषयं वा। न तावदान्तरम्, इदमिति बहीरूपतया तमसः प्रतिपत्तेः। नापि बाह्यम्, इन्द्रियान्तरनिरपेक्षस्य मनसो बहिर्विषयेषु ग्रहणासामर्थ्यात्।
इन्द्रियार्थमनस्सन्निकर्षजमात्मन एव यद्विज्ञानं तदिन्द्रियप्रत्यक्षम्। तत्र च चक्षुरेव रूपं गृह्णातीति नियमः। न चैतच्चक्षुषैव गृह्यते, निमीलिताक्षस्यापि कृष्णरूपतमःप्रतिभासात्।
निमीलिताक्षस्य न किंचित् पश्यामीति प्रतिपत्तिप्रत्यस्तमय इति चेत्, तन्न। किमक्षिणी निमील्यान्धकारं करोषीत्यादिप्रवादानामुपलब्धेः।
ननु च यदि चक्षुरिदं विज्ञानं नाधिगच्छति तद् वरमिन्द्रियान्तरकल्पना, न पुनरुपलब्धस्यापलापः?
तन्न। कृष्णरूपग्राहकेन्द्रियान्तरकल्पनायामचक्षुषोऽपि रूपोपलब्धिप्रसङ्गात्। तस्य तमस्येव शक्तिरिति चेत् रूपाविशेषे कोऽत्र व्यवस्थाहेतुः? ततश्च दूरस्थिततमोदर्शिनां निमीलिताक्षाणामपि तद्दर्शनप्रसङ्गः। विस्फारिते च चक्षुषि चक्षुषा पश्यामीति प्रतीतेरप्रसङ्गः। न च क्वचिदपि प्रवादे मनसोऽन्यत् षष्ठमिन्द्रियं दृश्यते।