पायाद् वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवर्धमानवपुषस्तिग्मद्युतेर्मण्डलम्।
मौलौ रत्नरुचि श्रुतौ परिलसत्ताटङ्ककान्ति क्रमा— ज्जातं वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपमम्॥ ४४१॥
पङ्कअ पङ्कि वहेलिअ कुवलअ खित्तउ हदहिं वालिहिं बिम्ब विविल्लिओ घत्तिओ चन्दु णहहि।
करणअणाहरवअणहिं तहिं लीलावइहिं णिअसिठ्ठि वि उच्चिठ्ठीणा इं पआवइहिं॥ ४४२॥
(पङ्कजं पङ्केऽवहेल्य कुवलयं क्षिप्त्वा ह्रदे वृन्ते बिम्बं विप्रकीर्णं निरस्तश्चन्द्रो नभसि।
करनयनाधरवदनैस्तत्र लीलावत्यां निजसृष्टिरप्युत्सृष्टा किं प्रजापतिना॥)
मिषमुक्तिप्रकारोऽवसर इति पर्यायस्त्रिधा। तत्र मिषं यथा—(काव्याद. २.१६८)