भिन्नक्रियो१ यथा—(काव्याद. २.३१७)
मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः॥ ४५९॥
अभिन्नकारको यथा—(काव्याद. २.३१९)
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि॥ ४६०॥
भिन्नकारको यथा—(काव्याद. ४.२२९)
गतिर्वेणी च नागेन वपुरूरू च रम्भया।
ओष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः॥ ४६१॥