उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥)
अन्यभावना यथा—(वज्जाल ५३८)
दंसणलिअं दढकं विबन्धणं दीहरं सुपरिणाहं।
होइ घरे साहीणं मुसलं घण्णाण महिलाणं॥ ४६४॥
(दंशनवलितं दृढकं विबन्धनं दीर्धं सुपरिणाहम्।
भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम्॥)
उद्भेदोऽपि भाविकमेव। स त्रिधा—अव्यक्तो व्यक्त उभयात्मकश्च।
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्॥ ४६५॥