अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहनालकर्कशम्।
वहति स्फुटमेतदेव ते वचनं शाकपलाशदेश्यताम्॥ ४६६॥
प्रम्लानोत्पलकोमले! सखि! दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवेल्लितः पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किन्तु प्रभावाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ४६७॥
नानालङ्कारसङ्करः संसृष्टिः।
सा त्रिधा— व्यक्तरूपा, अव्यक्तरूपा, व्यक्ताव्यक्तरूपा च। तासु व्यक्तरूपा तिलतण्डुलवत् छायादर्शवच्च। तयोराद्या यथा—
पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम्।