तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥ ४६८॥
अत्रोत्प्रेक्षाद्वयं रूपकद्वयं च तिलतण्डुलवत् सङ्कीर्णम्। द्वितीया यथा—(राच.१.५)
निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः।
परं पर्यश्रुनयनौ मम्लतुर्भ्रातरावुभौ॥ ४६९॥
अत्रादर्शे च्छायेव हेत्वलङ्कारे रामलक्ष्मणमुखयोरिन्दुपद्मौपम्यं दृश्यते। अव्यक्तरूपा क्षीरजलवत् पांसूदकवच्च। तयोराद्या यथा—
क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च।
टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत॥ ४७०॥
अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिथः संसृष्टे न व्यज्येते।
द्वितीया यथा— कृष्णार्जुनानुरक्तापि.॥ ४७१॥