अत्र पांसूदकयोरिव मृत्पिण्डे श्लेषविरोधयोरव्यक्तरूपयोरेव व्याजस्तुतावङ्ग— भावोऽवगम्यते। व्यक्ताव्यक्तरूपा नरसिंहवच्चित्रवर्णवच्च। तयोराद्या यथा—(रघु. ४.२९)
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम्॥ ४७२॥
अत्र नरसिंहजाताविव सिंहनरशरीरभागयोः परिवृत्त्यलङ्कारहेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः परिस्फुरन्नुपलभ्यते।
मयूरारावमुखरां प्रावृषं सतडिल्लताम्।
महाटवीमिवोल्लङ्घ्य तोयानि मुमुचुर्घनाः॥ ४७३॥
अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवर्णे श्लेषरूपकोपमार्थ— श्लेषाणां पदपदार्थाश्रयाणां शरद्वर्णनवाक्याश्रयिणि समाध्यलङ्कारे व्यक्ताव्यक्त— रूपोऽङ्गाङ्गिभावः प्रतीयते॥
चतुर्विंशतिरित्येताः क्रमेणोभयसंश्रिताः।
काव्यालङ्कृतयः प्रोक्ता यथावदुपमादयः॥ ४७४॥