भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1481 to 1490 of 1676 verses
यदध्यासेन वक्तॄणां गौणी वृत्तिः प्रकल्प्यते।

वेदे सा न कथंचित् स्यादध्यारोपयितुर्विना॥ ४०२॥

एवं तर्हि सर्व एते गवादिशब्दा जातिद्रव्यगुणक्रियासमुदायवाचिनः समस्तार्थासम्भवे सास्‍नादिमदादौ प्रयुज्यमाना मुख्याः बाहीकादौ तु कतिपयगुणक्रियायोगात् प्रवर्तमाना गौणतां लभन्ते। तत्राभिधीयते—

समुदायार्थवाचित्वे नैकदेशे भवेद् गतिः।

शतशब्दान्न पञ्चाशन्मुख्यरूपेण गम्यते॥ ४०३॥

(तवा.)

भवति तु जातिमात्रे दृष्टे सर्वक्रियागुणप्रत्यस्तमयेऽपि प्रयोगः प्रत्ययश्च मुख्यात्मनैव, न बाहीकादिष्विव गोशब्दादुपचरितः। अप्रसह्यकार्यपि हि कदाचिद् रोगेणोपहतः सिंह्याः पुत्रः सिंह एव। जातिवाचिता च गवादिशब्दानां १पुरस्तादुक्ता बाध्येत। क्रियागुणानां त्वानन्त्यान्न शक्यं प्रतिव्यक्ति गुणसम्बन्धोऽनुभवितुम्।

एकस्यामेव च व्यक्तौ बाल्यादिषु गुणक्रियाः।

अन्याश्चान्याश्च शक्यन्ते नाभिधातुमसङ्गतेः॥ ४०४॥

(तवा.)

Showing 1481 to 1490 of 1676 verses