न च प्रवृत्तिनिमित्तमन्तरेण शब्दो न प्रवर्तते, बुद्धिस्तु विषयमन्तरेणापि प्रवर्तत इति वक्तुमुचितम्।
न चार्थरहिता बुद्धिरात्माकारमात्रमनुभविष्यतीति वक्तव्यम्। नीलमिद— मित्यादिबुद्धिषु ग्राह्यस्य बाह्यत्वेनैवावभासात्।
अपि चायं गौणमुख्याविभागः श्रोतॄणामर्थविशेषावधारणे व्याप्रियते। ते च पदश्रवणवेलायामनध्यारोपितस्वार्थवृत्त्यैव गवादिपदमध्यवसाय बाहीकादिपदसामाना— धिकरण्यान्यथानुपपत्त्या गौणतां परिकल्पयन्ति। तत्र चैषां स्वयमनध्यारोप्यैव गोत्वं, तत्सादृश्यप्रतीतिर्भवति। सा च किं शब्दाद् अर्थाद् वेत्यन्विच्छतामन्वयव्यति— रेकाभ्यामर्थादिति निश्चयो जायते।
सिंहशब्दे ह्यनुक्तेऽपि सिंहार्थसदृशी मतिः।
जायते न त्वबुद्धेऽर्थे सिंहशब्दे श्रुतेऽपि नः॥ ४०१॥
यदा च श्रोतॄणां स्वयमेवाध्यारोपाभावस्तदा वक्तर्यपि नैवैषामियं कल्पना भवति; यथा कृतमनेन सिंहत्वमध्यारोपितमिति।
कथं तर्हि सिंहत्वाविनाभूतानेकक्रियागुणसमुदायोऽनेन देवदत्ते विवक्षितः?
यत्नगौरवभयान्न स्वैरभिधानैर्ब्रवीति। न चास्य समस्तस्य किंचिदेकं वाचकं १. पृष्ठ ३३४ पदमस्ति। तेनाविनाभावितया कथं तु सिंहत्वात् तत्प्रतीतिर्भवेदिति तत्तावदभिधीयते यतः स्थितया शब्दशक्त्या पुंसां व्यवहारो न तद्वशेन शक्त्यन्तरोपजन इति। किंच—(तवा. १.४.२२)