दोषस्य गुणीभावो गुणस्य च दोषीभावो लेशः। तत्र दोषस्य गुणीभावो यथा—(काव्याद. २.२७१)
चपलो निर्दयश्चासौ जनः किं तेन मे सखि!।
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः॥ ४०६॥
गुणस्य दोषीभावो यथा—(काव्याद. २.२६९)
युवैष गुणवान् राजा योग्यस्ते पतिरूर्जितः।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि॥ ४०७॥
व्याजस्तुतिरपि लेश एव। यथा—(काव्याद. २.३४५)
पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते।
राजन्निक्ष्वाकुवंशस्य किमिदं तव युज्यते॥ ४०८॥