आन्दोलनश्रमवशस्फुटघर्मबिन्दु—
मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥ ३८२॥
१४. देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः।
नृत्तगीतप्रभृतयः कलाः कामार्थसंश्रयाः॥ ३८३॥
चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता।
हेतुविद्यात्मको न्यायः सस्मृतिश्रुतिरागमः॥ ३८४॥
तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते।
कवेः प्रमादाद्देशादिविरोधीत्येतदुच्यते॥ ३८५॥