णहपाअअसाहाओ णिअअट्ठाणं व पडिगआओ दिसाओ॥ ३७४॥
(धुतमेघमधुकरा घनसमयाकृष्टावनतविमुक्ताः।
नमःपादपशाखा निजकस्थानमिव प्रतिगता दिशः॥)
श्लेषान्वितं यथा—(सेब. १.२४)
पीणपओहबरलग्गं दिसाणं पवसंतजलअसमअविइण्णं।
सोहग्गपढमइण्हं पम्माअइ/पव्वाअइ सरसणहवअं इंदधणुं॥ ३७५॥
(पीनपयोधरलग्नं दिशां प्रवसज्जलदसमयवितीर्णम्।
सौभाग्यप्रथमचिह्नं प्रम्लायति/प्रशुष्यति सरसनखपदमिन्द्रधनुः॥)
प्रसिद्धसाधर्म्याभावे द्योतकाभावे उभयाभावे वा उक्तिचातुर्यादौपम्यप्रतीतिः साम्यम्। सा त्रिधा— प्रसिद्धसाधर्म्याभावः, द्योतकाभावः, उभयाभावः। तत्र प्रसिद्धसाधर्म्याभावे यथा—(रघु. ६.६७)