तदतिक्रमे वार्ताभिधानं यथा—(काव्याद. १.९०)
देवधिष्णयमिवाराध्यमद्यप्रभृति नो गृहम्।
युष्मत्पादरजः पातधौतनिश्शेषकल्मषम्॥ ३६४॥
वर्णना यथा—(काव्याद. १.९१)
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा।
इदमेवंविधं भावि भवत्यास्स्तनजृम्भणम्॥ ३६५॥
८. इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम्।
प्रस्थानं प्राक्प्रणीतं तु सारं वैदर्भवर्त्मनः॥ ३६६॥ (काव्याद. १.९२)
परुषं निष्ठुरार्थं यदतीव हि विगर्हितम्।
विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति॥ ३६७॥