अभिनववधूरोषस्वादुः करीषतनूनपा—
दसरलजनाश्लेषक्रूरस्तुषारसमीस्णः।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे—
र्विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः॥ ३५८॥
७. लोकातीत इवार्थो यः सोऽतिमात्र इहेष्यते।
वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः॥
तच्च वार्ताभिधानेषु वर्णनास्वपि विद्यते।
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात्॥ ३६०॥