बाले! नाथ! विमुञ्च मानिनि! रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते
नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते॥ ३१२॥
६. वाक्यान्तरसगर्भं यत् तद् वाक्यं गर्भितं विदुः।
रसान्तरविरस्कारे तदिष्टं नेष्टमन्यथा॥ ३१३॥
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते. (पृ. ३६२)
७. देशभाषाप्रभेदेन प्रकृत्यादिभिदापि वा।