अथ वाक्यदोषाणामदोषः, तत्र
१. शब्दहीनस्य क्वचिद् विवक्षातो गुणत्वम्। यथा—
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ २९३॥
इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम्।
अपभाषणवद्भाति न च सौभाग्यमुज्झति॥ २९४॥
अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते।
न दोषः पुनरुक्तोऽपि प्रत्युतेयमलङ्क्रिया॥ २९५॥